(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.6. अध्यायः 006
Mahabharata - Virata Parva - Chapter Topics
पाण्डवैर्धौम्यविसर्जनपूर्वकं विराटनगरसमीपगमनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-6-0x(2993)(28378)
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम्।
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ॥ 1 ॥ 4-6-1(28379)
युधिष्ठिर उवाच। 4-6-2x(2994)
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन।
कुन्तीमृते मातरं नः पितरं च यशस्विनम् ॥ 2 ॥ 4-6-2(28380)
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति।
तारणाय तु दुःखस्य प्रस्थानाय भवाय च ॥ 3 ॥ 4-6-3(28381)
वैशम्पायन उवाच। 4-6-4x(2995)
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत्।
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा।
ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ॥ 4 ॥ 4-6-4(28382)
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः।
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ॥ 5 ॥ 4-6-5(28383)
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः ।
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ॥ 6 ॥ 4-6-6(28384)
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु।
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ॥ 7 ॥ 4-6-7(28385)
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः ।
ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् ॥ 8 ॥ 4-6-8(28386)
वसाना वनदुर्गेषु रमणीयेषु धन्विनः ।
पल्वलेषु च रम्येषु नदीनां संगमेषु च॥ 9 ॥ 4-6-9(28387)
द्रुमान्नानाविधाकारान्नानाविधलताकुलान् ।
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ॥ 10 ॥ 4-6-10(28388)
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः।
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ॥ 11 ॥ 4-6-11(28389)
विध्यन्तो मृगजातानि महेप्वासा महाबलाः ।
उपित्वा द्वादशसमा वने परपुरंजयाः ।
लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा ॥ 12 ॥ 4-6-12(28390)
तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् ।
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ॥ 13 ॥ 4-6-13(28391)
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु।
इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः।
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ॥ 14 ॥ 4-6-14(28392)
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ॥ 15 ॥ 4-6-15(28393)
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः ।
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ॥ 16 ॥ 4-6-16(28394)
व्यक्तं दूरे विराटम...राजधानी भविष्यति।
वसामेहापरां रात्रिं बलवान्मे परिश्रमः ॥ 17 ॥ 4-6-17(28395)
युधिष्ठिर उवाच। 4-6-18x(2996)
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन।
मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ॥ 18 ॥ 4-6-18(28396)
ततोऽदूरे विराटस्य नगरं भरतर्षभ ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 19 ॥ 4-6-19(28397)
नकुल उवाच। 4-6-20x(2997)
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने।
अटवी च मया दूरं धृता मृगवधेप्सुना ॥ 20 ॥ 4-6-20(28398)
विषमा ह्यतिदुर्गा च वेगवत्परिधावता।
सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ॥ 21 ॥ 4-6-21(28399)
युधिष्ठिर उवाच। 4-6-22x(2998)
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय।
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ॥ 22 ॥ 4-6-22(28400)
सहदेव उवाच । 4-6-23x(2999)
अहमप्यस्मि तृषितः क्षुधया परिपीडितः।
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ॥ 23 ॥ 4-6-23(28401)
युधिष्ठिर उवाच । 4-6-24x(3000)
एहि वीर विशालाश्च वीरसिंह इवार्जुन ।
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ॥ 24 ॥ 4-6-24(28402)
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 25 ॥ 4-6-25(28403)
वैशम्पायन उवाच। 4-6-26x(3001)
गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः।
बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् ।
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ॥ 26 ॥ 4-6-26(28404)
जटिलो वल्कलधरः शततूणीधनुर्धरः।
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् । 4-6-27(28405)
आनीय नगराभ्याशमवातारयदर्जुनः ॥ 27 ॥ ॥ 4-6-28(28406)

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि षष्ठोऽध्यायः ॥ 6 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.